(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.102. अध्यायः 102
Mahabharata - Drona Parva - Chapter Topics
दुर्योधने निरुन्धाने कृष्णेन तद्दुष्कृतानुस्मारणपूर्वकमर्जुनम्प्रति तद्वधचोदना॥ 1 ॥ अर्जुनम्प्रति दुर्योधनस्य वीरवादः॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

वासुदेव उवाच। 7-102-0x(4525)(48738)
दुर्योधनमतिक्रान्तमेतं पश्य धनञ्जय।
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः॥ 7-102-1(48739)
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः।
दृढहस्तश्चित्रयोधी धार्तराष्ट्रो महाबलः॥ 7-102-2(48740)
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः।
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान्॥ 7-102-3(48741)
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ।
अत्र नो द्यूतमायत्तं विजयायेतराय वा॥ 7-102-4(48742)
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम्॥
एष मूलमनर्थानां पाण़्वानां महात्मनाम्॥ 7-102-5(48743)
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः।
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्॥ 7-102-6(48744)
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम्।
यथाऽयं जीवितं जह्यात्तथा कुरु धनञ्जय॥ 7-102-7(48745)
ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान्।
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ॥ 7-102-8(48746)
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानवाः।
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः॥ 7-102-9(48747)
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्।
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः॥ 7-102-10(48748)
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ।
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्॥ 7-102-11(48749)
बहूनि सुनृशंसानि कृतान्येतेन मानद।
युष्मासु पापमतिना अपापेष्वपि नित्यदा॥ 7-102-12(48750)
तमनार्यं सदा क्रुद्धं पुरुषं कामरूपिणम्।
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्॥ 7-102-13(48751)
निकृत्या राज्यहरणं वनवासं च पाण्डव।
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम॥ 7-102-14(48752)
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते।
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः॥ 7-102-15(48753)
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह।
दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः॥ 7-102-16(48754)
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्।
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे॥ 7-102-17(48755)
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्।
वैरस्य दिष्ट्या सहजं मूलं छिन्धि दुरात्मनाम्॥ 7-102-18(48756)
सञ्जय उवाच। 7-102-19x(4526)
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम।
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः॥ 7-102-19(48757)
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्।
अप्यस्य युधि विक्रम्य च्छिन्द्यां मूर्धानमाहवे॥ 7-102-20(48758)
अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव।
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे॥ 7-102-21(48759)
`अप्यहं तानि दुःखानि पूर्ववृत्तानि माधव।
दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथञ्चन'॥ 7-102-22(48760)
इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान्।
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम्॥ 7-102-23(48761)
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ।
न चकार भयं प्राप्ते भये महति मारिष॥ 7-102-24(48762)
तदस्य क्षत्रियाः कर्म सर्व एवाभ्यपूजयन्।
यदर्जुनहृषीकेशौ प्रत्युद्यातौ न्यवारयत्॥ 7-102-25(48763)
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते।
महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे॥ 7-102-26(48764)
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति।
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्॥ 7-102-27(48765)
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना।
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः॥ 7-102-28(48766)
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ।
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः॥ 7-102-29(48767)
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष।
प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत्॥ 7-102-30(48768)
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः।
व्यक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ॥ 7-102-31(48769)
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः।
निराशाः समपद्यन्त पुत्रस्य तव जीविते॥ 7-102-32(48770)
शोकमापुः परं चैव कुरवः सर्व एव ते।
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्॥ 7-102-33(48771)
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ।
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः॥ 7-102-34(48772)
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्।
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे॥ 7-102-35(48773)
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः।
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्॥ 7-102-36(48774)
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च।
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण़्डुना॥ 7-102-37(48775)
यद्बलं तव वीर्यं च केशवस्य तथैव च।
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्॥ 7-102-38(48776)
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते।
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय॥ ॥ 7-102-39(48777)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्व्यदिकशततमोऽध्यायः॥ 102 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-102-1 नास्तीत्यर्जुनोत्तेजनम्॥ 5-102-6 आक्षेपं शरगोचरम्॥ 5-102-15 कार्यस्य जयद्रथवधरूपस्य॥ 5-102-19 कृत्यरूपमत्यन्तकरणीयम्॥ 5-102-29 पदं प्रतिपदम्। गन्तुं पदवीं कलहस्य च इति क. पाठः॥ 5-102-39 स्वामिसत्कारो वीरप्रधानोऽयमिति यदन्यैः सत्करणं तेन युक्तानि योग्यतां गतानि॥ 5-102-102 द्व्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.